शब्दकल्पद्रुमः
लक्ष्मीपतिः || पुं, (लक्ष्म्याः पतिः ।)
वासुदेवः । नरपतिः । इति मेदिनी । ते, २१५ ॥ (यथा, किराते । १ । ४४ । “अथ क्षमामेव निरस्तविक्रम- श्चिराय पर्य्येसि सुखस्य साधनम् । विहाय लक्ष्मीपतिलक्ष्म कार्म्मुकं जटाधरः सन् जुहुधीह पावकम् ॥”)
लवङ्गवृक्षः । पूगः । इति विश्वः ॥