वाचस्पत्यम्
लक्ष्मीपुत्र || पु० ६ त० । १ कामदेवे, २ अश्वे मेदि० ३ कुशे लवे च शब्दच० । ५ गन्धर्वभेदे ।
शब्दकल्पद्रुमः
लक्ष्मीपुत्त्रः || पुं, (लक्ष्म्याः पुत्त्रः ।) कामदेवः । घोटकः । इति मेदिनी । रे, २९३ ॥ कुशः । लवः । इति शब्दरत्नावली ॥