वाचस्पत्यम्
लक्ष्य || न० लक्ष—यत् । १ वेधार्थमुद्दिश्यमाने शरव्ये अमरः । २ लक्षणाबोध्येऽर्थे ३ उद्देश्ये, ४ ज्ञेये, ५ अनुमेये च त्रि० ।
शब्दकल्पद्रुमः
लक्ष्यं || क्ली (लक्ष्यते यदिति । लक्ष् + ण्यत् ।)
शरवेधस्थानम् । तत्पर्य्यायः । लक्षम् २ शर- व्यम् ३ । इत्यमरः । २ । ८ । ८६ ॥ प्रतिकायः ४ वेध्यम् ५ । इति जटाधरः ॥ वेधम् ६ । इति शब्दरत्नावली ॥ (यथा, कुमारे । ३ । ६४ । “कामस्तु बाणावसरं प्रतीक्ष्य पतङ्गवद्वह्निमुखं विविक्षुः । उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श ॥”)
शब्दकल्पद्रुमः
लक्ष्यः || त्रि लक्षणया बोध्यः । इति साहित्य- दर्पणम् ॥ (लक्ष्यते इति । लक्ष + ण्यत् ।)
दर्शनीयः । इति लक्षधात्वर्थदर्शनात् ॥ (व्याजः । इत्यमरः ॥ यथा, रघुः । ६ । ८१ । “रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्वा निराक्रामदरालकेश्याः ॥” अनुमेयः । इति मल्लिनाथः ॥ यथा, कुमारे । ५ । ७४ । “इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया ॥” तथा च रघुः । ४ । ५ । “छायामण्डललक्ष्येण तमदृश्या किल स्वयम् । पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥”)