संस्कृत-शब्दकोशः

लघट् लघिष्ठ

लघिमन्

वाचस्पत्यम्

लघिमन् ||‍ पु० लघोर्भावः इमनिच् डिच्च । १ लघुत्वे लाघवे, येनोर्द्धगतिसम्भवः । २ ऐश्वर्य्यभेदे च ।


शब्दकल्पद्रुमः

लघिमा || [न्] पुं, (लघोर्भावः । लघु + “पृथ्वादिभ्य इमनिज्वा ।” ५ । १ । १२२ । इति इमनिच् ।)
लघुत्वम् । (यथा, रघुः । १३ । ३७ । “घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मे लघिमानमात्मा ॥”)
तत्तु शिवस्याष्टैश्वर्य्यान्तर्गत ऐश्वर्य्यविशेषः । यथा, “लघिमा वशितेशित्वं प्राकाम्यं महिमाणिमा । यत्र कामावसायित्वं प्राप्तिरैश्वर्य्यमष्टधा ॥” इति हेमचन्द्रः ॥ (अबहुमतत्वम् । ह्रस्वत्वम् । यथा, आर्य्यासप्त- शत्याम् । ६० । “अग्रे लघिमा पश्चात् महतापि विधीयते नहि महिम्ना । वामन इति त्रिविक्रममभिदधति दशावतार- विदः ॥”)



Correction: