संस्कृत-शब्दकोशः

लघिमन् लघीयस्

लघिष्ठ

वाचस्पत्यम्

लघिष्ठ ||‍ त्रि० अतिशयेन लघुः इष्ठन् डित् । अतिशय- लघुत्वयुक्ते । ईयसुन् । लघीयानप्यत्र स्त्रियां ङीप् ।


शब्दकल्पद्रुमः

लघिष्ठः || त्रि अयमनयोरेषां वा अतिशयेन लघुः इत्यर्थे इष्ठप्रत्ययेन निष्पन्नः । अतिशयलघुत्व- युक्तः । इति व्याकरणम् ॥ (यथा, विदग्धमुख- मण्डने । “भवित्री रम्भोरु त्रिदशवदनम्लानिरधुना स रामोऽपि स्थाता न युधि पुरतो लक्षणयुतः । गमिष्यत्येवोच्चैर्व्विपदमधुना वानरचमू- र्लघिष्ठेदं षष्ठाक्षरपरविलोपात् पठ पुनः ॥” सीतारावणयोरुक्तिप्रत्युक्तिरियम् । सप्तमाक्षर- लोपे त्वेवं वाक्यम् । यथा । “दशवदनम्लानिः ।” “स्थाता युधि ।” “उच्चैः पदम् ॥”)



Correction: