लघिष्ठ
लघु
लघीयस्
शब्दकल्पद्रुमः
लघीयान् || [स्] त्रि, अयमनयोरेषां वा अति- शयेन लघुः इत्यर्थे ईयसुप्रत्ययेन निष्पन्नः । अतिशयलघुत्वयुक्तः । इति व्याकरणम् ॥ (यथा, महाभारते । २ । ६३ । १४ । “न वै समृद्धिं पालयते लघीयान् यत्त्वां समानेष्यति राजपुत्त्रि ! ॥”)