वाचस्पत्यम्
लघु || न० लघि—कु नि० नलोपः । १ शीघ्रे अमरः । २ कृष्णागुरुणि मेदि० । ३ वीरणमूले राजनि० । ४ पृक्कानामौषधौ स्त्री मेदि० । ५ निःसारे, ६ लाथवगुणान्विते, ७ ह्रस्वे, ८ मनोहरे च त्रि० मेदि० । व्याकरणोक्ते ह्रस्वसंज्ञके ९ अकारादौ वर्णे, ज्योतिषोक्तेमु “पुष्याश्चिहस्ता लघुः” इत्युक्तेषु १० पुष्यादिनक्षत्रेषु च पु० । ११ लघुतावत्यां स्त्रियां स्त्री वा ङीप् । तत्कृतौ णिच् लचयति ।
शब्दकल्पद्रुमः
लघु || क्ली (लङ्घते अनेनेति । लङ्घ + “लङ्घिवंह्यो- र्नलोपश्च ।” उणा० १ । ३० । इति कुः । धातोर्नलोपश्च ।)
शीघ्रम् । इत्यमरः ॥ (यथा, रामायणे । २ । ४६ । २१ । “यावदेव तु संसुप्तास्तावदेव वयं लघु । रथमारुह्य गच्छामः पन्थानमकुतोभयम् ॥”)
कृष्णागुरु । इति मेदिनी । घे, ५ ॥ लामज्जकम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, —
“लामज्जकं सुनालं स्यादमृणालं लयं लघुः । इष्टकापथकं सेव्यं नलदञ्चावदातकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ हस्ताश्विनीपुष्यनक्षत्राणि । यथा, बृहत्- संहितायाम् । ९८ । ९ । “लघु हस्ताश्विनपुष्याः पण्यरतिज्ञानभूषणकलासु । शिल्पौषधयानादिषु सिद्धिकराणि प्रदिष्टानि ॥” कालपरिमाणविशेषः । यथा, भागवते । ३ । ११ । ७ । “क्षणान् पञ्च विदुः काष्ठां लघुता दश पञ्च च । लघूनि वै समाम्नाता दश पञ्च च नाडिकाः ॥” पुं, प्राणायामविशेषः । यथा, मार्कण्डेये । ३९ । १३ — १४ । “लघुमध्योत्तरीयाख्यः प्राणायामस्त्रिधोदितः । तस्य प्रमाणं वक्ष्यामि तदलर्क शृणुष्व मे ॥ लघुर्द्बादशमात्रस्तु द्विगुणः स तु मध्यमः । त्रिगुणाभिस्तु मात्राभिरुत्तमः परिकीर्त्तितः ॥”)
शब्दकल्पद्रुमः
लघुः || त्रि (लङ्घ + कुः । नलोपश्च ।)
अगुरुः । (यथा, —
“तृणादपि लघुस्तूलस्तूलादपि च भिक्षुकः । न नीतो वायुना कस्मादर्थप्रार्थनशङ्कया ॥” इत्युद्भटः ॥)
मनोज्ञः । (इष्टः । इत्यमरः ॥ यथा, रघुः । ११ । १२ । “नाम्भसां कमलशोभिनां तथा शाखिनाश्च न परिश्रमच्छिदाम् । दर्शनेन लघुना यथा तयोः प्रीतिमापुरुभयोस्तपस्विनः ॥”)
निःसारः । इति मेदिनी । घे, ५ ॥ (यथा, रघुः । १२ । ६६ । “श्रुत्वा रामः प्रियोदन्तं मेने तत्सङ्गमोत्सुकः । महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥”)
ह्रस्वः । इति हेमचन्द्रः ॥ * ॥
द्याकरणोक्त- लघुसंज्ञा यथा । ह्रस्वो लघुः दीर्घो गुरुरित्यु- च्चारणवशाद्गम्यते । तथा संयोगे सति ह्रस्वो- ऽपि गुरुर्गुरुमतोऽनृच्छ इति वर्ज्जनाच्च । इति दुर्गसिंहकृतकलापवृत्तिः ॥ * ॥
छन्दःशास्त्रोक्तं लघुलक्षणं यथा, —
“मस्त्रिगुरुस्त्रिलघुश्च नकारो भादिगुरुः पुनरादिलघुर्यः । जो गुरुमध्यगतो रलमध्यः सोऽन्तगुरुः कथितोऽन्तलघुस्तः ॥ गुरुरेको गकारस्तु लकारो लघुरेककः ॥” इति छन्दोमञ्जरी ॥
शब्दकल्पद्रुमः
लघुः || स्त्री पृक्का नाम औषधिः । इति मेदिनी । घे, ५ ॥ (तथास्याः पर्य्यायः । “स्पृक्कासृग्ब्राह्मणी देवी मरुन्माला लता लघुः । समुद्रान्ता वधूः कोटिवर्षालङ्कोपिकेत्यपि ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)