संस्कृत-शब्दकोशः

लघूदुम्बरिका लङ्का

लघ्वी

शब्दकल्पद्रुमः

लघ्वी || स्त्री (लघु + ङीष् ।)
लाघवयुक्ता । (यथा, —
“गुर्व्वी पिण्डी खरात्यर्थं लघ्वी सैव विपर्य्ययात् । शक्तूनामाशु जीर्य्येत मृदुत्वादवलेहिका ॥” इति वैद्यकचक्रपाणिसंग्रहेऽतीसाराधिकारे ॥)
स्यन्दनप्रभेदः । इति मेदिनी । घे, ५ ॥ पृक्का । इति राजनिर्घण्टः ॥



Correction: