संस्कृत-शब्दकोशः

लघ्वी लङ्कादाहिन्

लङ्का

वाचस्पत्यम्

लङ्का ||‍ स्त्री लक अच् मुम् च । स्वनामख्यातायां १ पुर्य्याम् । सा च भूगोलस्य याम्ये भूवृत्तपादविवरे समुद्रभध्ये स्थिता” सि० शि० । २ सारिवोधौ ३ वेश्यायां ४ शाखा- याञ्च विश्वः ।


शब्दकल्पद्रुमः

लङ्का || स्त्री (रमन्तेऽस्यामिति । रम् + बाहु- लकात् कः । रस्य लत्वम् । इत्युज्ज्वलः । ३ । ४० ।)
रक्षःपुरी । (यथा, नैषधे । ३ । ६७ । “चेतो न लङ्कामयते मदीयं नान्यत्र कुत्रापि च साभिलाषम् ॥”)
ज्योतिःशास्त्रमते सा च पृथिव्या मध्यभागे तिष्ठति । लङ्कोदयात् चरखण्डेभ्यः स्वदेशे लग्न- प्रमाणं भवति । यथा, —
“लङ्का कुमध्ये यमकोटिरस्याः प्राक् पश्चिमे रोमकपत्तनञ्च । अधस्ततः सिद्धपुरं सुमेरुः सौम्येऽथ याम्ये वडवानलश्च । कुवृत्तपादान्तरितानि तानि स्थानानि षड्गोलविदो वदन्ति ॥” अपि च । “यल्लङ्कोज्जयनीपुरोपरिकुरुक्षेत्रादिदेशान् स्पृशन् सूत्रं मेरुगतं बुधैर्निगदिता सा मध्यरेखा भुवः । आदौ प्रागुदयोऽपरत्र विषये पश्चाद्धि रेखो- दयात् स्यात्तस्मात् क्रियते तदन्तरभुवं खेटेष्वृणं स्वं फलम् ॥” इति सिद्धान्तशिरोमणिः ॥ * ॥
अथ लङ्कापुरीवर्णनम् । त्वष्टोवाच । “त्रिंशद्योजनविस्तीर्णां स्वर्णप्राकारतोरणाम् । दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्व्वतः । शिखरे तस्य शैलस्य मध्यमम्बुधिसन्निधौ ॥ पतत्रिभिश्च दुष्प्रापां टङ्कच्छिन्नां चतुर्द्दिशम् । शक्रार्थं मत्कृता पूर्ब्बं प्रयत्नात् बहुवत्सरैः ॥ वसन्तु तत्र दुर्द्धर्षाः सुखं राक्षसपुङ्गवाः । अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः ॥ लङ्कादुर्गं समासाद्य शत्रूणां शक्रसूदनाः । दुराधर्षा भविष्यन्ति राक्षसैर्ब्बहुभिर्व्वृताः ॥” इति वह्रिपुराणे कपिलदर्शननामाध्यायः ॥ * ॥
शाखा । शाकिनी । कुलटा । इति मेदिनी । के, ३३ ॥ धान्यविशेषः । तत्पर्य्यायः । करालत्रि- पुटा २ काण्डिका ३ रूक्षणात्मिका ४ । अस्या गुणाः । रुच्यव्यम् । हिमत्वम् । गौल्यत्वम् । पित्तनाशित्वम् । वातकारित्वम् । गुरुत्वञ्च । इति राजनिर्घण्टः ॥



Correction: