संस्कृत-शब्दकोशः

लड्ड लण्ड

लड्डुक

वाचस्पत्यम्

लड्डुक ||‍ पु० लड—डु तस्य नेत्त्वम् स्वार्थे क । तैलादिपक्वे गोधूमादिचूर्णनिर्मिते (लाडु) मिष्टान्नभेदे “पृथुलड्डु कस्तनीति नैषधम् स्त्रीत्वमप्यस्य ।


शब्दकल्पद्रुमः

लड्डुकः || पुं, पिष्टकविशेषः । लाडु इति भाषा ॥ यथा । लड्डुको दुर्ज्जरो गुरुः । इति राज- वल्लभः ॥ अपि च । “तैलेन हविषा पक्वं भवेत् चूर्णञ्च लड्डुकः ॥” इति शब्दचन्द्रिका ॥



Correction: