वाचस्पत्यम्
लण्ड || पु० लडिरन् । (लण्डन) इति ख्याते देशभेदे ।
शब्दकल्पद्रुमः
लण्डं || क्ली (लण्ड्यते उत्क्षिप्यते इति । लण्ड + घञ् ।)
पुरीषम् । ल्याड् इति भाषा । यथा, —
“समेधमानेन स कृष्णबाहुना निरुद्धवायुश्चरणांश्च निक्षिपन् । प्रस्विन्नगात्रः परिवृत्तलोचनः पपात लण्डं विसृजन् क्षितौ व्यसुः ॥” इति श्रीभागवते १० स्कन्धे ३७ अध्याये ८ श्लोकः ॥ लण्डं पुरीषमुत्सृजन् । इति तट्टी- कायां श्रीधरस्वामी ॥