वाचस्पत्यम्
लता || स्त्री लत—अच् । शाखारहिते १ गुडूच्यादौ अमरः । २ शाखायां ३ प्रियङ्गौ ४ पृक्कायाम् ५ असनपर्ण्यां च अमरः । ६ ज्योतिष्मत्यां ७ लताकस्तूरिकार्या ८ माधवील तायां ९ दूर्वायाञ्च मेदि० । १० कैवर्त्तिकायां ११ सारिवोषधौ च राजनि० ।
शब्दकल्पद्रुमः
लता || स्त्री (लतति वेष्टयते यान्यमिति । लत + पचा- द्यच् । टाप् ।)
शाखादिरहिता गुडूच्यादिः । तत्पर्य्यायः । वल्ली २ व्रततिः ३ । इत्यमरः ॥ वल्लिः ४ वेल्लिः ५ प्रततिः ६ । सा शाखापत्र- समायुक्ता चेत्प्रतानिनी । इति शब्दरत्नावली ॥ तत्पर्य्यायः । वीरुत् २ गुल्मिनी ३ उलपः ४ । इत्यमरः ॥ * ॥
अमायां वीरुधां छेदकर्त्तुर्निन्दा यथा, —
“अप्सु तस्मिन्नहोरात्रे पूर्ब्बं विशति चन्द्रमाः ततो वीरुत्सु वसति प्रयात्यर्कं ततः क्रमात् ॥ छिनत्ति वीरुधो यस्तु वीरुत्संस्थे निशाकरे । पत्रं वा पातयत्येकं ब्रह्महत्यां स विन्दति ॥” इति श्रीविष्णुपुराणे २ अंशे १२ अध्यायः ॥ * ॥
आश्रमे रोपणीया शुभदा लतादिर्यथा, —
“अलावुश्चापि कुष्माण्डं मायाम्बुश्च सुकामुकः । खर्ज्जुरी कर्कटी चापि शिविरे मङ्गलप्रदा ॥ वास्तूकः कारवेल्लश्च वार्त्ताकुश्च शुभप्रदा । लताफलञ्च शुभदं सर्व्वं सर्व्वत्र निश्चितम् ॥” इति व्रह्मवैवर्त्ते श्रींकृष्णजन्मखण्डे १०२ अध्यायः ॥ शाखा । प्रियङ्गुः । (अस्याः पर्य्यायो यथा, —
“प्रियङ्गुः फलिनी कान्ता लता च महिलाह्वया । गुन्द्रा गुन्द्रफला श्यामा विष्वक् सेनाङ्गना- प्रिया ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
पृक्का । (यथास्याः पर्य्यायः । “तस्करोच्चारकश्चण्डो देवी पृक्का लता लघुः ॥” इति वैद्यकरत्नमालायाम् ॥)
अशनपर्णी । इत्यमरः ॥ ज्योतिष्मती । (अस्याः पर्य्यायो यथा, —
“ज्योतिष्मती स्यात् कटभी ज्योतिष्का कङ्गीनी- ति च । पारावतपदी पण्या लता प्रोक्ता ककुन्दनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
लताकस्तूरिका । माधवी । दूर्व्वा । इति मेदिनी । ते, ५१-५२ ॥ कैवर्त्तिका । सारिवा । इति राज- निर्घण्टः ॥ (बृहती । तत्पर्य्यायो यथा, —
“भण्डाकी बृहती सिंही वार्त्ताकी राष्ट्रिका- कुली । प्रसहा रक्तपाका च लता वृहतिका परा ॥”)
नारी । यथा, —
“नग्नां परलतां पश्यन् अयुतं यस्तु साधकः । प्रजपेत् स भवेत् शीघ्रं विद्याया वल्लभः स्वयम् ॥” इति तन्त्रसारे श्यामासाधनम् ॥ (तथा च नैषधे । १ । ८५ । “नवा लता गन्धवहेन चुम्बिता करम्बिताङ्गी मकरन्दशीकरैः । दृशा नृपेण स्मितशोभिकुड्मला दरादराभ्यां दरकम्पिनी पपे ॥” “नवा नवीना तला माधवीलता पक्षे नवा रम्या लता स्त्री ।” इति तट्टीका ॥ * ॥
अप्सरो- विशेषः । यथा, महाभारते । १ । २१७ । २० । “अहञ्च सौरभेयी च समीची वुद्वुदा लता । यौगपद्येन तं विप्रमभ्यगच्छाम भारत ! ॥”)