वाचस्पत्यम्
लताकरञ्ज || पु० लतारूपः करञ्ज । करञ्जभेदे राजनि० ।
शब्दकल्पद्रुमः
लताकरञ्जः || पुं, (लतारूपः करञ्जः ।)
करञ्ज- विशेषः । कण्टकरेज इति हिन्दी भाषा । तत्पर्य्यायः । दुष्पर्शः २ वीराख्यः ३ वज्र- बीजकः ४ धनदाक्षी ५ कण्टफलः ६ कुबे- राक्षी ७ । अस्य पत्रगुणाः । कटुत्वम् । उष्णत्वम् । कफवातनाशित्वञ्च । तद्बीजगुणाः । दीपनत्वम् । पथ्यत्वम् । शूलगुल्मविषापहत्वञ्च । इति राजनिर्घण्टः ॥