शब्दकल्पद्रुमः
लतिका || स्त्री (लत घाते + “कृतिभिदिलतिभ्यः कित् ।” उणा० ३ । १४७ । इति तिकन् ।)
गोधा । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
शब्दकल्पद्रुमः
लतिका || स्त्री लता । इति लताशब्दात् स्वार्थे कन्प्रत्ययेन ष्णिकप्रत्ययेन वा निष्पन्नम् ॥ (यथा, —
“इयं सन्ध्या दूरादहमुपगतो हन्त मलयात् तदेकां तद्गेहे विनयवति ! नेष्यामि रजनीम् । समीरेणोक्तैवं नवकुसुमिता चूतलतिका धुनाना मूर्द्धानं नहि नहि नहीत्येव कुरुते ॥” इत्युद्भटः ॥)