वाचस्पत्यम्
लप || कथने भ्वा० पर० द्विक० सेट् । लपति । अलापीत्—अल- पीत् । ऋदित् चङि न ह्रस्वः ।
शब्दकल्पद्रुमः
लप || ऋ भाषे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) ऋ, अलीलपत् अललापत् । भाषः कथनम् । इति दुर्गादासः ॥