वाचस्पत्यम्
लपन || न० लप्यते उच्यतेऽनेन लप—करणे ल्युट् । १ मुखे अमरः । भावे ल्युट् । २ कथने च ।
शब्दकल्पद्रुमः
लपनं || क्ली (लप्यतेऽनेनेति । लप् + करणे ल्युट् ।)
मुखम् । इत्यमरः ॥ (भावे ल्युट् ।)
भाष- णम् । इति लपधात्वर्थदर्शनात् ॥ (यथा, आर्य्यासप्तशत्याम् । ३८१ । “प्रकटयति रागमधिकं लपनमिदं वक्त्रिमाण- मावहति । प्रीणयति च प्रतिपदं दूति शुकस्येव दयि- तस्य ॥” “शुकस्येव दयितस्य लपनं सम्भाषणम् । पक्षे वदनम् ।” इति तट्टीका ॥)