वाचस्पत्यम्
लब्ध || त्रि० लभ—कर्मणि क्त । १ प्राप्ते अमरः । २ नायिकाभेदे स्त्री जटा० । भावे क्त । प्राप्तौ ३ लाभे न० । “ब्राह्मस्याधिकं लब्धम्” गौत० स्मृति ।
शब्दकल्पद्रुमः
लब्धः || त्रि (लभ् + क्तः ।)
प्राप्तः । इत्यमरः ॥ (यथा, हितोपदेशे । “अलब्धञ्चैव लिप्सेत लब्धं रक्षेदपक्षयात् । रक्षितं वर्द्बयेत् सम्यक् वृद्धं तीर्थेषु निक्षिपेत् ॥”)