लब्ध
लब्धा
लब्धवर्ण
वाचस्पत्यम्
लब्धवर्ण || पु० लब्धो वर्णो वर्णनं प्रशंसा ज्ञानवत्त्वेन येन । पण्डिते अमरः ।
शब्दकल्पद्रुमः
लब्धवर्णः || पुं, (लब्धावर्णा यशांसि येन ।)
पण्डितः । इत्यमरः ॥ (यथा, रघुः । ११ । २ । “कृच्छ्रलब्धमपि लब्धवर्णभाक् तं दिदेश मुनये सलक्षणम् ॥”)