वाचस्पत्यम्
लभस || न० लभ—असच् नि० मुम् । वाजिबन्धने उज्ज्वल० ।
शब्दकल्पद्रुमः
लभसः || पुं, (लभ् + “अत्यविचमीति ।” उणा० ३ । ११७ । इति असच् ।) वाजिबन्धनरज्जुः । इत्युणादिकोषः ॥ धनम् । याचकः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥