वाचस्पत्यम्
लभ्य || त्रि० लभ—कर्मणि यत् । १ प्राप्तव्ये मेदि० २ न्याय्ये अमरः
शब्दकल्पद्रुमः
लभ्यं || त्रि (लभ्यते इति । लभ् + पोरदुपधात् ।” ३ । १ । ९८ । इति यत् ।)
न्याय्यम् । इत्यमरः ॥ लब्धव्यम् । इति मेदिनी । ये, ४३ ॥ (यथा, मुण्डकोपनिषदि । ३ । २ । ३ । “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन । यमेवैष वृणुते तेन लभ्य- स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥”)