वाचस्पत्यम्
लमक || पु० रम—वुन् रस्य लः । १ मिङ्गे जारे सि० कौ० ।
शब्दकल्पद्रुमः
लमकः || पुं, (रमते इति । रम् + “रमेरश्च लो वा ।” उणा० २ । ३३ । इति क्वुन् रस्य लत्वञ्च ।)
षिड्गः । इति सिद्धान्तकौमुद्या- मुणादिवृत्तिः ॥ (तीर्थशोधकः । इत्युज्ज्वलः ॥ विलासिनि, त्रि । इति केचित् ॥)