संस्कृत-शब्दकोशः

लम्बवीजा लम्बिका

लम्बा

वाचस्पत्यम्

लम्बा ||‍ स्त्री लम्बते लबि—अच् । १ तिक्ततुम्ब्यां (तितलाउ) २ लक्ष्म्यां ३ गौर्य्याञ्च मेदि० ४ दक्षकन्याभेदे ५ हिमालय- कन्याभेदे च हरिवं० ।


शब्दकल्पद्रुमः

लम्बा || स्त्री लक्ष्मीः । गौरी । तिक्ततुम्बी । इति मेदिनी । वे, ६ ॥ दक्षकन्याविशेषः । यथा, —
“अरून्धतीं वसुं यामीं लम्बां भानुं मरुत्वतीम् । सङ्कल्पाञ्च मुहूर्त्ताञ्च साध्यां विश्वाञ्च भारत । मनवे दक्षपुत्त्राय दक्ष एता ददौ प्रभुः ॥” इति हरिवंशे अधिपतिस्थापनम् ॥ हिमालयकन्याविशेषः । यथा, —
“ततस्त्र्यक्षवचः श्रुत्वा देवीलम्बामथाब्रवीत् । गच्छस्व लम्बे शीघ्रं त्वं वाणसंरक्षणं कुरु ॥ ततो योगं समाधाय अदृश्या हिमवत्सुता । कृष्णस्यैकस्य तद्रूपं दर्शयत् पार्श्वमागता ॥ सान्तर्द्धानमुपागम्य त्यक्त्वा सा वाससी पुनः । परित्राणाय वाणस्य विजयाधिष्ठिता ततः ॥ प्रमुखे वासुदेवस्य दिग्वासाः कोट्टवी स्थिता ।” इति महाभारते हरिवंशे बाणयुद्धम् ॥



Correction: