लम्बा
लम्बित
लम्बिका
शब्दकल्पद्रुमः
लम्बिका || स्त्री (लम्बते या । लम्ब + ण्वुल् । टापि अत इत्वम् ।)
तालूर्द्ध्वसूक्ष्मजिह्वा । तत्पर्य्यायः । घण्टिका २ । इति राजनिर्घण्टः ॥ सुधास्रवा ३ गलशुण्डिका ४ । इति हेमचन्द्रः ॥ अलि- जिह्वा ५ अलिजिह्विका ६ । इति शब्दरत्ना वली ॥