शब्दकल्पद्रुमः
लम्बितः || त्रि (लम्ब + क्तः ।)
स्रंसितः । (यथा, गीतगोविन्दे । १२ । १८ । “त्वदधरचुम्बनलम्बितकज्जलमुज्ज्वलय प्रिय लोचने ॥”)
शब्दितः । इति लबधातोः कर्म्मणि क्तप्रत्ययेन निष्पन्नम् । लम्बमानमाल्यादिश्च ॥ (यथा, महाभारते । ३ । १५७ । ४२ । “वडिशोऽयंत्वया ग्रस्तः कालसूत्रेण लम्बितः ॥”)