वाचस्पत्यम्
लम्बोदर || पु० लम्बं दीर्घमुदरं यस्य । १ गणेशे अमरः । २ तारा- नाम्न्यां देव्यां स्त्री तन्त्रम् ङीष् । ३ दीर्घोदराद्ये त्रि० ।
शब्दकल्पद्रुमः
लम्बोदरः || पुं, (लम्बमुदरं यस्य ।)
गणेशः । इत्यमरः ॥ (यथा, आर्य्यासप्तशत्याम् । १९८ । “गतिगञ्जितवरयुवतिः करी कपोलौ करोतु मदमलिनौ । मुखबन्धमात्रसिन्धुर लम्बोदर किं मदं वहसि ॥” नृपविशेषः । इति भागवतम् । १२ । १ । २२ ॥)
औदरिके, त्रि । इति हेमचन्द्रः ॥ (यथा, कथासरित्सागरे । ७० । १०२ । “ततो लम्बोदरेणेत्य पुंसारोपितबाहुकः । सम्पादितः स यातस्तद्वनं केशरिणीकृते ॥”)