वाचस्पत्यम्
लय || गतौ भ्वा० आत्म० सक० सेट् । लयते अलविष्ट । अलविढ्वम् अलयिध्वम् ।
वाचस्पत्यम्
लय || पु० ली—अच । १ संश्लेषे २ विमाशे ३ नृत्यगीतवाद्याना- मेकतानतारूपे साम्ये च मेदि० । लीयतेऽत्र । सर्वभूत- क्षरकरे ४ प्रलयकाले शब्दर० ५ ईश्वरे च । णस्यलयभेदाश्च “द्विपदी स्याद्बलतिका झल्लिका छिन्नखण्डिका । वाम भ्रुवस्ततश्छिन्ना खण्डधारा फडक्ककः । जम्भट्टिका- कलतिकः खण्डकः खुरिकस्तथा । कथितश्चतुरस्रोऽर्द्धचतु- रस्रोऽथ नर्त्तकः । त्र्यस्रः षट्युन्दालनावकृष्टमन्दघटी- त्यपि । कादम्बश्चर्चरी घट्टा मिश्रोऽर्द्धवलिता ततः । अतिचित्रः समग्रश्च वलितोऽर्द्धदलस्तथा । आविद्धस्तु टङ्कवकस्ततश्चित्रविचित्रकौ । आन्त्री विकृतधारा च मुकुलोऽथ विलोलकः । रमणीयस्ततश्चैव करकण्टक- संज्ञकः । चत्वारिंसदिमे प्रोक्ता लया लयविशारदैः । लयेन वश्यो भगवान् लये लीनो जनार्दनः” सङ्गीतदा० ।
शब्दकल्पद्रुमः
लय || ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।)
ङ, लयते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लयः || पुं, (ली + अच् ।)
विनाशः । संश्लेषः । तौर्य्य- त्रिकस्य साम्यम् । इति मेदिनी । ये, ५२ ॥ प्रलयः । इति शब्दरत्नावली ॥ * ॥
अखण्डवस्त्वनवलम्ब- नेन चित्तवृत्तेर्निद्रा । इति श्रीपरमहंससदानन्द- योगीन्द्रकृतवेदान्तसारः ॥ तत्राद्यं विघ्नं लक्ष- यति लयस्तावदिति । लयो द्विविधः । चिरकाल- मुक्ताष्टाङ्गसहितनिर्विकल्पकसमाध्यभ्यासपाटवे- नातितप्तलोहतलक्षिप्तजलबिन्दुवत् तैलरहित- दीपकलिकावच्च प्रत्यगभिन्ने परमानन्दे चित्त- वृत्तेर्लयः प्रथमः । द्बितीयस्तु मूर्च्छावस्थावत् आल- स्येन चित्तवृत्तेर्व्वाह्यशब्दादिविषयग्रहणानादरे सतिप्रत्यगात्मस्वरूपानवभासनात् वृत्तेस्तब्धीभाव- लक्षणनिद्रारूपः । इति श्रीनृसिंहसरस्वतीकृत- सुबोधिन्याख्या तट्टीका ॥ गीतवाद्यपादन्यासानां क्रियाकालयोः परस्परं समता लयः । लीयन्ते श्लिष्यन्तेऽनेनेति लयन्ति व्रजन्ति साम्यं गीता- दयोऽत्रेति वा लयः । ली ङ य ओ श्लिषि लय गत्यां वा अल् । इत्यमरटीकायां भरतः ॥ * ॥
लयस्थानविवर्ज्जणं गायकस्य चतुर्द्दशदोषान्त- र्गतदोषविशेषो यथा, —
“लज्जितं भीतमुक्तेषु अव्यक्तमनुनासिकम् । काकस्वरः शिरःकम्पो लयस्थानविवर्ज्जितम् ॥ विस्वरं विरमञ्चैव विश्लिष्ठं विषमाहतम् । व्याकुलं तालहीनञ्च गातुर्दोषाश्चतुर्दश ॥” * ॥
अथ लयाः । हृदि स्थितिः कण्ठस्थितिः कपाल- स्थितिरिति लयत्रयम् । अपरे तु । “द्विपदी स्याद्वलतिका झल्लिका छिन्नखण्डिका । वामभ्रुवस्ततश्छिन्ना खण्डधावा फडक्ककः ॥ जम्भट्टिका कलतिकः खण्डकः खुरिकस्तथा । कथितश्चतुरस्रोऽर्द्धश्चतुरस्रोऽथ नर्त्तकः ॥ त्र्यस्रः षष्ट्युन्दालनावकृष्टा नन्दघटीत्यपि । कादम्बश्चर्व्वरी घट्टा मिश्रोऽर्द्धवनिता ततः ॥ अतिचित्रः समयश्च वलितोऽर्द्धदलस्तथा । आविद्धस्तु टङ्कवकस्ततश्चित्रविचित्रकौ ॥ आन्त्री विकृतधावा च मुकुलोऽथ विलोलकः । रमणीयस्ततश्चैव करकण्टकसंज्ञकः ॥ चत्वारिंशदिमे प्रोक्ता लया लयविशारदैः । लयेन वश्यो भगवान् लये लीनो जनार्द्दनः ॥” इति संगीतदामोदरः ॥ (त्रि, आवरणात्सकम् । इति श्रीधरस्वामी यथा, भागवते । ११ । २५ । १५ । “यदा जयेद्रजः सत्त्वं तमो मूढं लयं जडम् । युज्येत शोकमोहाभ्यां निद्रया हिंसया शया ॥” क्ली, लामज्जकम् । यथा, —
“लामज्जकं सुनालं स्यादमृणालं लयं लघुः । इष्टकापथकं सेव्यं नलदञ्चावदातकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)