वाचस्पत्यम्
ललाम || न० लल—अच् तममति अम—अण् । १ प्रधाने, २ ध्वजे ३ शृङ्गे ४ बालधौ ५ चिह्ने ६ भूषायां ७ रम्ये ८ तिलके ९ घोटके १० प्रभावे च मेदि० । नान्तत्वमप्यस्य रुद्रः ।
शब्दकल्पद्रुमः
ललामं || क्ली (लड विलासे + क्विप् । तं अमति प्राप्नोतीति । अम गतौ + अण् । डस्य लत्वम् ।)
चिह्रम् । ध्वजः । शृङ्गम् । प्रधानम् । भूषा । (यथा, भागवते । ३ । १४ । ४८ । “पौत्त्रस्तव श्रीललनाललामं द्रष्टास्फुरत् कुन्तलमण्डिताननम् ॥”)
बालधिः । पुण्ड्रम् । तुरङ्गः । प्रभावः । इति मेदिनी । मे ५१ ॥ अश्वललाटे अन्यवर्णचिह्नम् । गवादीनां ललाटचित्रम् । अश्वस्य भूषा । इत्यमरटीकायां भरतः ॥ (पुंनपुंसकलिङ्गमपि । यथा, —
“ललामोऽस्त्री ललामापि प्रभाबे पुरुषे ध्वजे । श्रेष्ठभूषापुण्ड्रशृङ्गपुच्छचिह्नाश्वलिङ्गिषु ॥” इति रघुटीकायां मल्लिनाथधृतयादव्रः ॥ रम्ये श्रेष्ठे च त्रि । यथा, महाभारते । ७ । २२ । १३ । “ललामैर्हरिभिर्युक्तः सर्व्वशब्दसहैर्युधि । राज्ञां मघ्ये महेष्वासः शान्तभीरभ्यवर्त्तत ॥”)