शब्दकल्पद्रुमः
ललितकान्ता || स्त्री (ललिता कान्ता च ।)
मङ्गल- चण्डिका । तस्या ध्यानं यथा, —
“यैषा ललितकान्ताख्या देवी मङ्गलचण्डिका । वरदाभयहस्ता च द्विभुजा गौरदेहिका ॥ रत्नकौषेयवस्त्रा च स्मितवक्त्रा शुभानना । नवयौवनसम्पन्ना चार्व्वङ्गी ललितप्रभा ॥” इति तिथ्यादितत्त्वम् ॥