वाचस्पत्यम्
लवङ्ग || न० लू—अङ्गच् । स्वनामख्याते द्रव्ये अमरः । “लवङ्गं कटुकं तिक्तं लघु नेत्रहितं हितम् । दीपनं पाचनं रुच्यं कफपित्तास्रनाशनम् । तृष्णां छर्दिं तथा ध्मानशूलमाशु विनाशयेत् । कासं श्वासं च हिक्कां च क्षयं क्षिपति तद्ध्रुवम्” भावप्र० । स्वार्थे क तत्रैव शब्दर० ।
शब्दकल्पद्रुमः
लवङ्गं || क्ली (लुनाति श्लेष्मादिकमिति । लू + “तरत्यादिभ्यश्च ।” उणा० १ । ११९ । इति अङ्गच् ।)
स्वनामख्यातबणिग्द्रव्यभेदः । तत्- पर्य्यायः । देवकुसुमम् २ श्रीसंज्ञम् ३ । इत्य- मरः ॥ श्रीप्रसूनम् ४ । इति भावप्रकाशः ॥ लवङ्गकम् ५ । इति शब्दरत्नावली ॥ लवङ्ग- कलिका ६ दिव्यम् ७ शेखरम् ८ लवम् ९ श्रीपुष्पम् १० रुचिरम् ११ वारिसम्भवम् १३ भृङ्गारम् १४ गीर्व्वाणकुसुमम् १५ चन्दन- पुष्पम् १६ । अस्य गुणाः । शीतलत्वम् । तिक्त- त्वम् । चक्षुष्यत्वम् । भुक्तरोचनत्वम् । वात- पित्तकफनाशित्वम् । ताक्ष्णत्वम् । मूर्द्धरुजा- पहत्वञ्च । इति राजनिर्घण्टः ॥ आध्मानानाह- शूलघ्नत्वम् । दीपनत्वम् । लघुत्वञ्च । इति राज- वल्लभः ॥ अपि च । “लवङ्गं कटुकं तिक्तं लघु नेत्रहितं हिमम् । दीपनं पाचनं रुच्यं कफपित्तास्ननाशकृत् ॥ तृष्णां छर्द्दिं तथाध्मानं शूलमाशु विनाशयेत् । कासं श्वासञ्च हिक्काञ्च क्षयं क्षपयति ध्रुवम् ॥” इति भावप्रकाशः ॥ (यथा, —
“विरहानलसन्तप्ता तापिनी कापि कामिनी । लवङ्गानि समुत्सृज्य ग्रहणे राहवे ददौ ॥” इत्युद्भटः ॥)