वाचस्पत्यम्
लव || पु० लू—अप् । १ लेशे २ विनाशे ३ छेदने श्रीरामपुत्रे मेदि० ५ कालपरिमाणभेदे काष्ठाद्वये हेमच० ६ गोलाङ्गूल- लोम्नि, ७ बाले केशे च ८ जातीफले न० शब्दच० । ९ लवङ्गे १० लामज्जके ११ ईषदर्थे राजनि० । १२ लावखगे पुंस्त्री० राजनि० ।
शब्दकल्पद्रुमः
लवं || क्ली (लू + अप् ।)
जातीफलम् । इति शब्दचन्द्रिका ॥ लवङ्गम् । लामज्जकम् । ईषत् । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
लवः || पुं, (लवणमिति । लू + अप् ।)
लेशः । (यथा, रघुः । १६ । ६६ । “वक्रेतराग्रैरलकैस्तरुण्य- श्चूर्णारुणान् वारिलवान् वमन्ति ॥”)
विनाशः । छेदनम् । रामपुत्त्रः । इति मेदिनी । वे, २२ ॥ अत्र विनाशस्थाने विलासः । इति विश्वः हेमचन्द्रश्च ॥ (रामपुत्त्रस्य जन्मविवरणादिकं रामायणे उत्तरकाण्डतो द्रष्टव्यम् ॥)
काल- भेदः । यथा, —
“अष्टादशनिमेषास्तु काष्ठा काष्ठाद्वयं लवः ॥” इति हेमचन्द्रः ॥ (यथा, भागवते । १ । १८ । १३ । “तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्त्यानां किमुताशिषः ॥”)
लावानामा पक्षी । इति राजनिर्घण्टः ॥ (किञ्जल्कः । पक्षः । गोपुच्छलोम । इति रघु- टीकायां मल्लिनाथधृतवैजयन्ती ॥ यथा, रघुः । १५ । ३२ । “स तौ कुशलवोम्मृष्टगर्भक्लेदौ तदाख्यया । कविः कुशलवावेव चकार किल नामतः ॥”)