शब्दकल्पद्रुमः
लवङ्गलता || स्त्री (लवङ्गस्य लता ।)
पुष्पलता- विशेषः । यथा, जयदेवः । “ललितलवङ्गलतापरिशीलनकोमलमलय- समीरे । मधुकरनिकरकरम्बितकोकिलकूजितकुञ्ज- कुटीरे ॥ विहरति हरिरिह सरसवसन्ते । नृत्यति युवतिजनेन समं सखि विरहिजनस्य दुरन्ते ॥” (यथा च । “अयि ! प्लवङ्ग ! लवङ्गलतालये पिब मधूनि विधूय मधुव्रतान् । इह वने हि वनेचरसङ्कुले नहि सतामसताञ्च विवेचना ॥”)
राधायाः सखीविशेषश्च ॥