वाचस्पत्यम्
लवण || पु० लू—ल्युट् पृषो० णत्वम् । १ रसभेदे “लवणः शोधनो रुच्यः पाचनः कफपित्तदः । पुंस्त्ववातहरः- कायशैथिल्यमृदुताकरः । चक्षुर्नासास्यजलदः कपोल- गलदाहकृत् । सोऽतियुक्तोऽक्षिपाकास्रपित्तकोटक्षतादि- कृत् । “बलीपलितखालित्यं कुष्ठवीसर्पतृट्प्रदः” भावप्र० । तत्प्रधाने २ सैन्धवसौवर्चलविडादिरूपे पदार्थे च न० । तदुत्पत्तिस्थाने ३ सिन्धुदेशे ४ समुद्रे ५ मधुदैत्यसुते अ- सुरभेदे च पु० । ६ लवणरसयुक्ते मेदि० ७ लावण्यवति च त्रि० ८ नदीभेदे ९ दीप्तौ च स्त्री मेदि० ।
शब्दकल्पद्रुमः
लवणं || क्ली (लुनाति जाड्यमिति । लू + नन्द्यादि- त्वात् ल्युः । पृषोदरादित्वात् णत्वम् ।)
क्षार- रसयुक्तद्रव्यम् । तत्तु पञ्चविधं यथा । सौव- र्च्चलम् १ सैन्धवम् २ विटम् ३ औद्भिदम् ४ सामुद्रम् ५ । तथा हि । “सामुद्रं यत्तु लवणमक्षीवं वसिरञ्च तत् । सैन्धवोऽस्त्री शीतशिवं माणिमन्थञ्च सिन्धुजे ॥ रौमकं वमुकं पाक्यं विडञ्च कृतके द्वयम् ॥” सौवर्च्चलेऽक्षरुचके । इत्यमरः ॥ (अस्य विवरणं यथा । “सैन्धवसामुद्रविडसौवर्च्चलरोमकोद्भिद- प्रभृतीनि लवणानि यथोत्तरमुष्णानि वात- हराणि कफपित्तकराणि यथापूर्ब्बं स्निग्धानि स्वादूनि सृष्टमूत्रपुरीषाणि चेति ॥ “चक्षुष्यं सैन्धवं हृद्यं रुच्यं लघ्वग्निदीपनम् । स्निग्धं समधुरं वृष्यं शीतं दोषघ्नमुत्तमम् ॥ सामुद्रं मधुरं पाके नात्युष्णमविदाहि च । भेदनं स्निग्धमीषच्च शूलघ्नं नातिपित्तलम् ॥ सक्षारं दीपनं रूक्षं शूलहृद्रोगनाशनम् । रोचनं तीक्ष्णमुष्णञ्च विडं वातानुलोमनम् ॥ लघुसौवर्च्चलं पाके वीर्य्योष्णं विशदं कटु । गुल्मशूलविबन्धघ्नं हृद्यं सुरभि रोचनम् ॥ रोमकं तीक्ष्णमत्युष्णं व्यवायि कटुपाकि च । वातघ्नं लघु विस्यन्दि सूक्ष्मं विड्भेदि मूत्रलम् ॥ लघु तीक्ष्णोष्णमुत्क्लेदि सूक्ष्मं वातानुलोमनम् । सतिक्तं कटु सक्षारं विद्याल्लवणमौद्भिदम् ॥ कफवातक्रिमिहरं लेखनं पित्तकोपनम् । दीपनं पाचनं भेदि लवणं गुटिकाह्वयम् ॥ ऊषसूतं बालुकेलं शैलमूलाकरोद्भवम् । लवणं कटुकं छेदि विहितं कटु चोच्यते ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥ * ॥
लू + भावे ल्युट् ।)
छेदनम् । यथा । लवोऽभि- लावो लवणे । इति चामरः (खड्गयुद्ध- प्रकारविशेषः । यथा, हरिवंशे भविष्य- पर्व्वणि । ५३ । १७ । “आहितं चित्रकं क्षिप्तं कुद्रवं लवणं धृतम् ॥”)
शब्दकल्पद्रुमः
लवणः || त्रि (लवणेन संसृष्टः । लवण + ठक् । “लवणात् लुक् ।” ४ । ४ । २४ । इति ठको लुक् । यद्वा, लवणो रसोऽस्त्यस्मिन्निति । अर्श आद्यच् ।)
लवणरसयुक्तः । इति मेदिनी । णे, ७५ ॥ (यथा, सुश्रुते । १ । २१ । “मधुरस्त्वविदग्धः स्याद्विदग्धो लवणः स्मृतः ॥”)
लावण्ययुक्तश्च ॥
शब्दकल्पद्रुमः
लवणः || पुं, (लुनातीति । लू + ल्युः ।)
सिन्धु- भेदः । (यथा, महाभारते । ६ । ५ । १५ । “लवणेन समुद्रेण समन्तात् परिबारितः ॥”)
राक्षसविशेषः । रसविशेषः । इति मेदिनी । णे, ७४ ॥ (यथा, भागवते । ३ । ३१ । ७ । “कटुतीक्ष्णोष्णलवणक्षाराम्लादिभिरुल्वणैः । मातृभुक्तैरुपस्पृष्टः सर्व्वाङ्गोत्थितवेदनः ॥”)
पृथिव्यग्निगुणबाहुल्याल्लवणः । इति चक्रपाणि- दत्तकृतद्रव्यगुणोपरि शिवदासीयटीका ॥ तत्- पर्य्यायः । पटुः २ । तस्य गुणाः । “लवणो रुचिकृद्रसोऽग्निदायी पचनः स्वादुकरश्च सारकश्च । रसितो नितरां जराञ्च पित्तं शितिमानञ्च ददात्रि कुष्ठकारी ॥” इति राजनिर्घण्टः ॥ अपि च । “लवणः क्लेदनस्तीक्ष्णः पाचनो दीपनः सरः । स्निग्धो रुचिकरः स्यन्दी दृष्टिशुक्रहरो लघुः ॥” अन्यच्च । “लवणः शोधनो रुच्यः पाचनः कफपित्तदः । पुंस्त्ववातहरः कायशैथिल्यमृदुताकरः । सोऽतियुक्तोऽक्षिपाकास्रपित्तकुष्ठक्षयापकृत् ॥” इति राजवल्लभः ॥ * ॥
(“लवणः स्यन्दयत्यास्यं कपोलगलदाहकृत् ।” “लवणः स्तम्भसङ्घातबन्धविध्मापनोऽग्निकृत् ॥ स्नेहनः स्वेदनस्तीक्ष्णो रोचनश्छेदभेदकृत् । सोऽतियुक्तोऽस्रवपनं खलतिं पलितं वलिम् ॥ तृट्कुष्ठविषवीसर्पान् जनयेत् क्षपयेद्बलम् ॥” इति वाग्भटे सूत्रस्थाने दशमेऽध्याये ॥ “लवणो रसः पाचनः क्लेदनः दीपनः च्यावनः छेदनः भेदनस्तीक्ष्णः सरो विकास्यधःस्रं स्यव- काशकरो वातहरः स्तम्भबन्धसङ्घातविधमनः सर्व्वरसप्रत्यनीकभूत आस्यं विस्रावयति कफं विस्यन्दयति मार्गान् शोधयति सर्व्वशरीरा- वयवान् मृदूकरोति रोचयत्याहारमाहार- योगी नात्यर्थगुरुः स्निग्ध उष्णश्च । स एवं गुणोऽप्येक एवात्यर्थमुपयुज्यमानः पित्तं कोपयति रक्तं वर्द्धयति तर्पयति मूर्च्छ- यति तापयति दाहयति कुष्णाति मांसानि प्रगालयति कुष्ठानि विषं वर्द्धयति शोफान् स्फोटयति दन्तान् श्यावयति पुंस्त्वमुपहन्ति इन्द्रियाण्युपरुणद्धि वलीपलित्यखालित्यमापा- दयति च लोहितपित्ताम्लपित्तवीसर्पवातरक्त- विचर्च्चिकेन्द्रलुमप्रभृतीन् विकारानुपजनयति ।” “प्रलीयन् क्लेशविष्यन्दलाघवं कुरुते मुखे । यः शीघ्रं लवणो ज्ञेयः सविदाहन्मुखस्य च ॥” इति चरके सूत्रस्थाने २६ अध्यायः ॥ “लवणः संशोधनः पाचनो विश्लेषणः क्लेदनः शैथिल्यकृदुष्णः सर्व्वरसप्रत्यनीको मार्गविशो- धनः सर्व्वशरीरावयवमार्द्दवकरश्चेति स एवं- गुणोऽप्येकत्र वात्यर्थमासेव्यमानो गात्रकण्डूकोठ- शोफवैवर्ण्यपुंस्त्वोपघातेन्द्रियोपतापान् तथा- मुखाक्षिपाकं रक्तपित्तवातशोणिताम्लीका- प्रभृतीनापादयति ॥” “यो भक्तरुचिमुत्पादयति कफप्रसेकं जनयति मार्द्दवञ्चापादयति स लवणः ।” इति सुश्रुते सूत्रस्थाने ४२ अध्यायः ॥ * ॥
)
लवणासुरस्य विवरणं यथा, —
“पूर्व्वं कृतयुगे राजन् ! दैतेयः सुमहामतिः । लोलापुत्त्रोऽभवज्ज्येष्ठो मधुर्नाम महासुरः ॥ स मधुर्व्वीर्य्यसम्पन्नो धर्म्मे च सुसमाहितः । बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ॥ शूलं शूलाद्विनिष्कृष्य महावीर्य्यं महाप्रभम् । ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ॥ यावत् सुरैश्च विप्रैश्च न विरुध्येर्म्महासुर ! । तावच्छूलं तवेदं स्यादन्यथा नाशमेष्यति ॥ यश्च त्वामभियुञ्जीत युद्धाग विगतज्वरः । तं शूलो भस्मसात् कृत्वा पुनरेष्यति ते करम् ॥ एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः । प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ॥ भगवन्मम वंशस्य शूलमेतदनुत्तमम् । भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ॥ तं ब्रुवाणं मधुं देवः सर्व्वभूतपतिः शिवः । प्रत्युवाच महादेवो नैतदेवं भविष्यसि ॥ माभूत्ते विफला वाणी मत्प्रसादकृता शुभा । भवतः पुत्त्रमेकन्तु शूलमेतद्भविष्यति ॥ यावत् करस्थः शूलोऽयं भविष्यति सुतस्य ते । अवध्यः सर्व्वभूतानां शूलहस्तो भविष्यति ॥ एवं मधुर्व्वरं लब्ध्वा देवात् सुमहदद्भुतम् । भवनं सोऽसुरश्रेष्ठः कारयामास सुप्रभम् ॥ तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या । विश्वावसोरपत्यं साप्यनलायां महाप्रभा ॥ तस्याः पुत्त्रो महावीर्य्यो लवणो नाम दारुणः । वाल्यात् प्रभृति दुष्टात्मा पापान्येव समाचरत् ॥ तं पुत्त्रं दुर्व्विनीतन्तु दृष्ट्वा क्रोधसमन्वितः । मधुः स शोकमापेदे न चैनं किञ्चिदब्रवीत् ॥ स विहाय इमं लोकं प्रविष्टो वरुणालयम् । शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ॥ स प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा । सन्तापयति लोकांस्त्रीन् विशेषेण च तापसान् ॥ आहारः सर्व्वसत्त्वानि विशेषेण च तापसाः । आचारो रौद्रता नित्यं वासो मधुवने तथा ॥ हत्वा बहुसहस्राणि सिंहव्याघ्रमृगाण्डजान् । मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ॥ तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् । घातयिष्यामि तद्रक्षो व्यपगच्छतु वो भयम् ॥ प्रतिज्ञाय तदा तेषां मुनीनामुग्रतेजसाम् । स भ्रातॄन् सहितान् सर्व्वानुवाच रघुनन्दनः ॥ को हन्ता लवणं वीरः कस्यांशः स विधी- यताम् । भरतस्य महाबाहो शत्रुघ्नस्य च धीमतः ॥ राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् । अहमेनं वधिष्यामि ममांशः स विधीयताम् ॥ भरतस्य वचः श्रुत्वा धैर्य्यशौर्य्यसमन्वितम् । लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् ॥ शत्रुघ्नस्त्वब्रवीद्बाक्यं प्रणिपत्य नराधिपम् । कृतकर्म्मा महाबाहुर्मध्यमो रघुनन्दन ! ॥ आर्य्येण हि पुरा शून्या त्वयोध्या परिपालिता । सन्तापं हृदये कृत्वा आर्य्यस्यागमनं प्रति । प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात् ॥ तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् । एवं भवतु काकुत्स्थ क्रियतां मम शासनम् ॥ स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् । राज्यं प्रशाधि धर्म्मेण वाक्यं मे यद्यवेक्षसे ॥ यदा तु युद्धमाकाङ्क्षन् यदि कश्चित् समाह्वयेत् । तदा शूलं गृहीत्वा तु भस्म रक्षः करोति हि ॥ स त्वं पुरुषशार्द्दूल ! तमायुधविनाकृतम् । अप्रविष्टं पुरं पूर्ब्बं द्बारि तिष्ठ धृतायुधः । अन्यथा क्रियमाणे तु अवध्यः स भविष्यति ॥ ततः प्रभाते विमले तस्मिन् काले स राक्षसः । निर्गतस्तु पुराद्वीरो भक्ष्याहारप्रचोदितः ॥ एतस्मिन्नन्तरे वीर उत्तीर्य्य यमुनां नदीम् । तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ॥ ततोऽर्द्धदिवसे प्राप्ते क्रूरधर्म्मा स राक्षसः । आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन् ॥ ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् । तमुवाच ततो रक्षः किमनेन करिष्यसि ॥ तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः । शत्रुघ्नो वीर्य्यसम्पन्नो रोषादश्रूण्यवासृजत् ॥ उवाच च सुसंक्रुद्धः शत्रुघ्नः स निशाचरम् । योद्धुमिच्छामि दुर्ब्बुद्धे द्वन्द्वयुद्धं त्वया सह ॥ तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः । क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ आहूतस्तु पुनस्तेन शत्रुघ्नेन महात्मना । लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ॥ आकर्णात् स विकृष्याथ तद्धनुर्धन्विनां वरः । स मुमोच महावाणं लवणस्य महोरसि ॥ उरस्तस्य विदार्य्याशु प्रविवेश रसातलम् । पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् ॥ शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः । पपात सहसा भूमौ वज्राहत इवाचलः ॥ तच्च शूलं महद्दिव्यं हते लवणराक्षसे । पश्यतां सर्व्वदेवानां रुद्रस्य वशमन्वगात् ॥ हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः । ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् ॥ वरदास्तु महाबाहो सर्व्व एव समागताः । विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ॥ देवानां भाषितं श्रुत्वा शूरो मूर्द्ध्नि कृताञ्जलिः ॥ प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ॥ इयं मधुपुरी रम्या मधुरा देवनिर्म्मिता । निवेशं प्राप्नुयाच्छीघ्रमेव मेऽस्तु वरः परः ॥ तं देवाः प्रीतमनसो वाढमित्येव राघवम् । भविष्यति पुरी रम्या शूरसेना न संशयः ॥ ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा । शत्रुघ्नोऽपि महातेजास्तां सेनां समुपानयेत् ॥ सा सेना शीघ्रमागच्छत् श्रुत्वा शत्रुघ्नशासनम् । निवेशनञ्च शत्रुघ्नः श्रावणेन समारभत् ॥ तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् । निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ॥ तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् । रामपादौ निरीक्ष्येऽहं वर्षे द्वादश आगते ॥” इति श्रीरामायणे उत्तरकाण्डे एकषष्ट्यादिसप्त- त्यन्ताध्यायेभ्यः सङ्कलितम् ॥ * ॥
लवणसमुद्र- स्योत्पत्तिर्यथा, —
“विरजा सा रजोयुक्ता धृत्वा वीर्य्यममोघकम् । सद्यो बभूव तत्रैव धन्या गर्भवती सती । तस्थौ तत्र सुखासीना सार्द्धं पुत्त्रैश्च सप्तभिः ॥ एकदा हरिणा सार्द्धं वृन्दारण्ये सुनिर्जने । विजहार पुनः साध्वी शृङ्गारासक्तमानसा ॥ एतस्मिन्नन्तरे तत्र मातुः क्रोडं जगाम ह । कनिष्ठपुत्त्रस्तस्याश्च भ्रातृभिः पीडितो भिया ॥ भीतं स्वतनयं दृष्ट्वा तत्याज तां कृपानिधिः । क्रोडे चकार बालं सा कृष्णो राधागृहं ययौ ॥ प्रबोध्य बालं सा साध्वी न ददर्शान्तिके प्रियम् । विललाप भृशं तत्र शृङ्गारातृप्तमानसा ॥ शशाप स्वसुतं कोपात् लवणोदो भविष्यति ॥ कदापि ते जलं केचित् न खादिष्यन्ति जीविनः ॥ शशाप सर्व्वान् बालांश्च यान्तु मूढा मही- तलम् । गच्छध्वं च महीं मूढा जम्बुद्बीपं मनोहरम् ॥ स्थितिर्नैकत्र युष्माकं भविष्यति पृथक् पृथक् । द्वीपे द्वीपे स्थितिं कृत्वा तिष्ठन्तु सुखिनः सुताः ॥ द्वीपस्थाभिर्नदीभिश्च सह क्रीडन्तु निर्जने । कनिष्ठो मातृशापाच्च लवणोदो बभूव ह ॥ कनिष्ठः कथयामास मातृशापञ्च बालकान् । आजग्मुर्दुःखिताः सर्व्वे मातृस्थानञ्च बालकाः ॥ श्रुत्वा विवरणं सर्व्वे प्रजग्मुर्धरणीतलम् । प्रणम्य मातुश्चरणं भक्तिनम्रात्मकन्धराः ॥ सप्तद्वीपे समुद्राश्च सप्त तस्थुर्विभागशः । कनिष्ठाद्वृद्धपर्य्यन्तं द्विगुणं द्विगुणं मुने ॥ लवणेक्षुसुरासर्पिर्दधिदुग्धजलार्णवाः । एतेषाञ्च जलं पृथ्य्वां शस्यार्थञ्च भविष्यति । व्याप्ताः समुद्राः सप्तैव सप्तद्वीपां वसुन्धराम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३ अध्यायः ॥