संस्कृत-शब्दकोशः

लश लशून

लशुन

वाचस्पत्यम्

लशु(शू)न ||‍ न० अश—उनन् ऊनन् वा धातोरादेर्लश्च । (रशुन) । रसोने भावप्र० । तस्योत्पत्तिगुणादि भावप्र० उक्तं यथा “लशुनन्तु रसोनः स्यादुग्रगन्धो मश्लौषधम् । अरिष्टो म्लेच्छकन्दः स्यात् पवनेष्टो रसोनकः । यदामृतं वैनतेयो । जहार सुरसद्मनः । तदा ततोऽपतद्विन्दु स रसो- नोऽपतद् भुवि । पञ्चभिश्च रसैर्युक्तोरसेनाम्लेन वर्जितः तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः । कटुक- श्चापि मूलेषु तिक्तः पत्रेषु संस्थितः । नाले कषाय उद्दिष्टो नालाग्रे लवणः स्थितः । वीजे तु मधुरः प्रोक्तो रस स्तद्गुणवेदिभिः । रसोनो वृंहणो वृष्यः स्निग्धोष्णः पाचनः सरः । रसे पाके च कटुकस्तीक्ष्णो मधुरसो मतः । भग्नसन्धानकृत् कण्ठ्यो गुरुपित्तास्ववृद्धिदः । बलार्णकरो मेधाहितो नेत्र्यो रसायनः । हृद्रोग- जीर्णज्वरकुक्षिशूल विबन्धगुल्मारुचिकासशोफान् । दु- र्णामकुष्ठानलसादजन्तुसमीरणश्वासकफांश्च हन्ति । मद्यं भांसं तथाम्लञ्च हितं लशुनसेविनाम्” । दीर्घमध्यः शब्दर० ।


शब्दकल्पद्रुमः

लशुनं || क्ली (अश्यते भुज्यते इति । अश् + “अशेर्लश च ।” उणा० ३ । ५७ इति उनन् । लशादेशश्च धातोः ।)
रसुनः । तत्पर्य्यायः । महौषधम् २ गृञ्जनः ३ अरिष्टः ४ महा- कन्दः ५ रसोनकः ६ । इत्यमरः ॥ रसोनः ७ म्लेच्छकन्दः ८ भूतघ्नः ९ उग्रगन्धः १० । अस्य गुणाः । अम्लरसेन ऊनत्वम् । गुरुत्वम् । उष्णत्वम् । कफवातनाशित्वम् । अशुचित्वम् । क्रिमिहृद्रोगशोफघ्नत्वम् । रसायनत्वञ्च । इति राजनिर्घण्टः ॥ * ॥
अपि च । “लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् । अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः ॥ यदामृतं वैनतेयो जहार सुरसत्तमात् । तदा ततोऽपतद्विन्दुः सुरसोनोऽपतद्भुवि ॥ पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्ज्जितः । तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः ॥ कटुकश्चापि मूलेषु तिक्तः पत्रेषु संस्थितः । नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः ॥ बीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः । रसोनो बृंहणो वृष्यो स्निग्धोष्णः पाचनः सरः ॥ रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः । भग्नसन्धानकृत् कण्ठ्यो गुरुः पित्तास्रवृद्धिदः । बलवर्णकरो मेधाहितो नेत्र्यो रसायनः ॥ हृद्रोगजीर्णज्वरकुक्षिशूलं विबन्धगुल्मारुचिकासशोफान् । दुर्नामकुष्ठानलसादजन्तु- समीरणश्वासकफांश्च हन्ति ॥ मद्यं मांसं तथाम्लञ्च हितं लशुनसेविनाम् ॥ व्यायाममातपं रोषमतिनीरं पयो गुडम् । रसोनमश्नन् पुरुषस्त्यजेदेतन्निरन्तरम् ॥” इति भावप्रकाशः ॥ * ॥
अन्यच्च । “लशुनः क्षारमधुरः कण्ठ्यो वृष्यो गुरुः सरः । भग्नसन्धानकृद्बल्यो रक्तपित्तप्रदूषणः ॥” इति राजवल्लभः ॥ (तथाचास्य गुणादिविषयो यथा, —
“कट्वम्लवीर्य्यो लशुनो हितश्च स्निग्धो गुरुः स्वादुरसोऽथ बल्यः । वृद्धस्य मेधास्वरवर्णचक्षु- र्भग्नास्थिसन्धानकरः सुतीक्षणः ॥ हृद्रोगजीर्णज्वरकुक्षिशूल- प्रमेहहिक्कारुचिगुल्मशोफान् । दुर्नामकुष्ठानलमान्द्यजन्तु- समीरणं श्वासकफान्निहन्ति ॥” इति हारीते कल्पस्थाने तृतीयाध्याये ॥ “शीतवातहिमदग्धतनूनां स्तब्धभुग्नकुटिलव्यथितास्थ्नाम् । भेषजस्य पवनोपहतानां वक्ष्यते विधिरतो लशुनस्य ॥” “शीलयेल्लशुनं शीते वसन्तेऽपि कफोल्वणः । घनोदयेऽपि वातार्त्तः सदा वा ग्रीष्मलीलया ॥” इति वाग्भटे उत्तरस्थाने ३९ अध्यायः ॥ “क्रिमिकुष्ठकिलासघ्नो वातघ्नो गुल्मनाशनः । स्निग्धश्चोष्णश्च वृष्यश्च लशुनः कटुको गुरुः ॥” इति चरके सूत्रस्थाने २७ अध्यायः ॥)



Correction: