शब्दकल्पद्रुमः
लाक्षकी || स्त्री सीता । यथा, —
“राघव ते इयं सीता द्वारकेशस्य रुक्मिणी । विष्णोऽवतारमात्रस्य लक्ष्मीर्य्या कमलालया ॥ वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे । वैकुण्ठे तु महालक्ष्मी राधा वृन्दावने वने ॥ लक्षशः कमला दास्यो यस्याः सा लाक्षकी मता । एवं शतसहस्राणामीश्वरी राधिकाधिका ॥” इति पाद्मोत्तरखण्डे ५५ अध्यायः ॥