वाचस्पत्यम्
लाक्षणिक || त्रि० लक्षणया बोधयति ठक् । १ लक्षणया अर्थबो- धके शब्दे । अस्त्यर्थे ठन् स्वार्थे अण् । २ लक्षणयुक्ते च ।
शब्दकल्पद्रुमः
लाक्षणिकः || पुं, लक्षणया प्रतिपादकः । इति साहित्यदर्पणम् ॥ लक्षणात्मकवृत्तिमत्पदत्वं लाक्षणिकत्वम् । इति सारमञ्जरी ॥ (यथा, विभक्तितत्त्वार्थवादे । “शक्तो लाक्षणिको रूढो योगरूढश्च यौगिकः । क्वचित् यौगिकरूढश्च शब्दः षोढा निगद्यते ॥” (लक्षणमधीते वेद वा । लक्षण + “कतूक्थादि- सूत्रान्तात् ठक् ।” ४ । २ । ६० । इति ठक् । लक्षणाभिज्ञे, त्रि ॥)