संस्कृत-शब्दकोशः

लाक्षातरु लाक्षादितैल

लाक्षातैल

शब्दकल्पद्रुमः

लाक्षातैलं || क्ली (लाक्षादिभिः पक्वं तैलम् ।)
पक्वतैलविशेषः । लाक्षादितैलमिति ख्यातम् । तद्द्विविधं स्वल्पं बृहच्च । यथाक्रमं तत्प्रकारं तद्गुणञ्चाह । “लाक्षाहरिद्रामञ्जिष्ठाकल्कैस्तैलं विपाचितम् । सद्गुणेनारनालेन दाहशीतज्वरापहम् ॥” इति स्वल्पलाक्षातैलम् ॥ बृहद्यथा, —
“लाक्षारसाढके प्रस्थं तैलस्य विपचेद्भिषक् । मस्त्वाढकसमायुक्तं पिष्ट्वा चात्र समावपेत् ॥ शतपुष्पां हरिद्राञ्च मूर्व्वां कुष्ठं हरेणुकाम् । कटुकां मधुकां रास्नामश्वगन्धाञ्च दारु च ॥ मुस्तकं चन्दनञ्चैव पृथगक्षसमानकैः । द्रव्यैरेतैश्च तत् सिद्धं अभ्यङ्गान्मारुतापहम् ॥ विषमाख्यान् ज्वरान् सर्व्वानाश्वेव प्रशमं नयेत् । कासं श्वासं प्रतिश्यायं कण्डूं दौर्गन्ध्यगौरवम् ॥ त्रिकपृष्ठग्रहं शूलं गात्राणां स्फुटनन्तथा । पापालक्ष्मीप्रशमनं सर्व्वग्रहनिवारणम् । अश्विभ्यां निर्म्मितं सम्यक् तैलं लाक्षादिकं महत ॥” इति बृहल्लाक्षातैलम् । इति मुखबोधः ॥



Correction: