संस्कृत-शब्दकोशः

लाक्षातैल लाक्षाप्रसाद

लाक्षादितैल

वाचस्पत्यम्

लाक्षादितैल ||‍ न० लाक्षादिभिः पक्वं तैलम् शा० त० । वैद्यकप्र- सिद्धे तैलभेदे तच्च द्विविधं स्वल्पं वृहच्चेतिभेदात् तत्र स्वल्पं यथा “लाक्षा हरिद्रा मञ्जिष्ठाकल्कैस्तैलं विपाचितम् । तद्गुणेनारनालेन दाहशीतज्वरापहम्” । वृहत् यथा “लाक्षारसाढके प्रस्थं तैलस्य विपचेत् भिषक् । मस्त्वा- ढकसमायुक्तं पिष्ट्वा चात्र समावपेत् । शतपुष्पां हरिद्राञ्च मूर्वां कुष्ठं हरेणुकाम् । कटुकां मधुकां रास्नामश्वगन्धाञ्च दारु च । मुस्तकं चन्दनं चैव पृथगक्ष- समानकैः । द्रव्यैरेतैश्च संसिद्धमभ्यङ्गात् मारुतापहम् । विषमाख्यान् ज्वरान् सर्वानाश्वेवं प्रशमं नयेत् । कासं श्वासं प्रतिश्यायं कण्डूं दौर्गन्ध्यगौरवम् । त्रिकपृष्ठ- ग्रहं शूलं गात्राणां स्फुटनं तथा । पापालक्ष्मीप्रशमनं सर्वग्रहनिवारणम् । अश्विभ्यां निर्मितं सम्यक् तैलं लाक्षादिकं महत्” मुखबोधः ।



Correction: