वाचस्पत्यम्
लाघ || सामर्थ्ये भ्वा० आ० अक० सेट् । लाघते अलाघिष्ट । ऋदित् चङि न ह्रस्वः ।
शब्दकल्पद्रुमः
लाघ || ऋ ङ शक्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।) ऋ, अललाघत् । ङ, लाघते । शक्तिः सामर्थ्यम् । इति दुर्गादासः ॥