संस्कृत-शब्दकोशः

लाघ लाङ्गल

लाघव

वाचस्पत्यम्

लाघव ||‍ न० लघोर्भावः अण् । १ लघुत्वे आरोग्ये च राजनि०


शब्दकल्पद्रुमः

लाघवं || क्ली (लघोर्भावः कर्म्म वा । लघु + “इग- न्ताच्च लघुपूर्ब्बात् ।” ५ । १ । १३१ । इति अण् ।)
आरोग्यम् । इति राजनिर्घण्टः ॥ लघु- त्वम् । लघोर्भाव इत्यर्थे ष्णप्रत्ययेन निष्पन्नम् ॥ (शीघ्रत्वम् । यथा, महाभारते । ५ । १८३ । ७ । “तासां रूपं भारत नोत शक्यं तेजस्वित्वात् लाघवाच्चैव वक्तुम् ॥” अल्पत्वम् । यथा, मार्कण्डेये । ४१ । १७ । “अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् । नित्यस्वाध्याय इत्येते नियमाः पञ्च कीर्त्तिताः ॥” क्लैव्यम् । यथा, कुमारे । २ । २३ । “यमोऽपि विलिखन् भूमिं दण्डेनास्तमितत्विषा । कुरुतेऽस्मिन्नमोघेऽपि निर्व्वाणालातलाघवम् ॥”)



Correction: