वाचस्पत्यम्
लाङ्गल || न० लगि—कलच् पृषो० वृद्धिः । स्वनामख्याते १ भूमिकर्षके पदार्थे अमरः । २ लिङ्गे त्रिका० ३ पुष्पभेदे ४ तालवृक्षे ५ गृहदारुणि च मेदि० ।
शब्दकल्पद्रुमः
लाङ्गलं || क्ली (लङ्गतीति । लगि गतौ + बाहु- लकात् कलच् । वृद्धिश्च धातोः । इति उणादि- वृत्तौ उज्ज्वलदत्तः । १ । १०८ ।)
स्वनामख्यात- भूमिकर्षणयन्त्रम् । तत्पर्य्यायः । हलम् २ गोदा- रणम् ३ सीरः ४ । इत्यमरः ॥ हलः ५ हालम् ६ हालः ७ शीरः ८ । इति भरतः ॥ (यथा, वाजसनेयसंहितायाम् । १२ । ७१ । “लाङ्गलं पवीरवत्सुशेवं£सोमपित्सरु ॥”)
लिङ्गः । इति त्रिकाण्डशेषः ॥ पुष्पविशेषः । तालवृक्षः । गृहदारु । इति मेदिनी । ले, १२८ ॥