संस्कृत-शब्दकोशः

लाङ्गलचक्र लाङ्गलपद्धति

लाङ्गलदण्ड

वाचस्पत्यम्

लाङ्गलदण्ड ||‍ पु० ६ त० । लाङ्गलमध्यस्थे काष्ठमये दण्ड (ईश) अमरः ।


शब्दकल्पद्रुमः

लाङ्गलदण्डः || पुं, (लाङ्गलस्य दण्डः ।)
लाङ्गल- मध्यस्थकाष्ठम् । लाङ्गलेर ईश इति भाषा । तत्पर्य्यायः । ईशा २ । इत्यमरः ॥ ईषा ३ । इति शब्दरत्नावली ॥



Correction: