वाचस्पत्यम्
लाङ्गलपद्धति || स्त्री लाङ्गलखाता पद्धतिः रेखा । सीतायाम् लाङ्गलखातक्षेत्रस्थभूमिरेखायाम् अमरः ।
शब्दकल्पद्रुमः
लाङ्गलपद्धतिः || स्त्री (लाङ्गलस्य पद्धतिः ।)
लाङ्गल- रेखा । सिराल इति भाषा । तत्पर्य्यायः । शीता २ । इत्यमरः ॥ सीता ३ । इति शब्द- रत्नावली ॥