वाचस्पत्यम्
लाङ्गलिन् || पु० लाङ्गलं प्रहरणसाधनत्वेनास्त्यस्य इनि । १ बल- रामे शब्दर० । लाङ्गलदण्ड इव दीर्घः आकारोऽस्त्यस्य इनि । ३ नारिकेलवृक्षे अमरः ।
शब्दकल्पद्रुमः
लाङ्गली || [न्] पुं, (लाङ्गलमस्त्यस्येति । लाङ्गल + इनिः ।)
बलरामः । इति शब्दरत्नावली ॥ (यथा, हरिवंशे । ३८ । ३८ । “स्थापयित्वा विलद्वारि यदून् लाङ्गलिना सह । शार्ङ्गधन्वा विलस्थन्तु जाम्बवन्तं ददर्श ह ॥”)
नारिकेलः । इत्यमरः ॥ (यथा, —
“नारिकेलो दृढफलो लाङ्गली कूर्च्चशीर्षकः । तुङ्गस्कन्धफलश्चैव तृणराजः सदाफलः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
सर्पः । इति शब्दचन्द्रिका ॥ (लाङ्गलविशिष्टे, त्रि । यथा, रामायणे । २ । ३२ । ३० । “तत्रासीत् पिङ्गलो गार्ग्यस्त्रिजटोंनामवै द्बिजः । क्षतवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली ॥” तथा, महाभारते । १ । २२२ । ५३ । “रामः पाणिग्रहणिकं ददौ पार्थाय लाङ्गली ॥” स्त्रियां ङीष् । नदीविशेषः । यथा, मार्कण्डेये । ५७ । २९ । “लाङ्गलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः ॥”)