संस्कृत-शब्दकोशः

लाङ्गलिन् लाङ्गुल

लाङ्गली

वाचस्पत्यम्

लाङ्गली ||‍ स्त्री लाङ्गलाकारः पुष्पमस्त्यस्याः अच् गौरा० ङीष् (काँचडा) शाकमेदे अमरः ।


शब्दकल्पद्रुमः

लाङ्गली || स्त्री (लाङ्गलाकारोऽस्त्यस्या इति । लाङ्गल + अच् । ङीष् ।)
लाङ्गलाकारपुष्प- जलजशाकविशेषः । काँचडा इति भाषा । तत्पर्य्यायः । शारदी २ तोयपिप्पली ३ शकुला- दनी ४ । इत्यमरः ॥ जलाक्षी ५ जलपिप्पलिः ६ । इति शब्दरत्नावली ॥ पित्तला ७ श्यामा- दिनी ८ मत्स्यगन्धा ९ । इति जटाधरः ॥ कलि- कारी १० । इति राजनिर्घण्टः ॥ (शालपर्णी । तत्पर्य्यायो यथा, —
“स्थिरा विदारिगन्धा च शालपर्ण्यस्तमत्यपि । लाङ्गली कलसी चैवक्रोष्टुपुच्छा गुहा मता ॥” इति गारुडे २०८ अध्यायः ॥)



Correction: