वाचस्पत्यम्
लाञ्छन || न० लाञ्छ्यते लाछि—कर्मणि ल्युट् । १ चिह्ने २ नामनि च मेदि० भावे ल्युट् । ३ अङ्कने ।
शब्दकल्पद्रुमः
लाञ्छनं || क्ली (लाञ्छ + ल्युट् ।)
नाम । चिह्नम् । इति मेदिनी । ने, १२१ ॥ (यथा, कुमारे । ७ । ३५ । “दिवापि निष्ठ्यूतमरीचिभासा बालादनाविष्कृतलाञ्छनेन । चन्द्रेण नित्यं प्रतिभिन्नमौलेः चूडामणेः किं ग्रहणं हरस्य ॥”)
शब्दकल्पद्रुमः
लाञ्छनः || पुं, (लाञ्छतीति । लाञ्छ + ल्युः ।)
रागीधान्यम् । इति राजनिर्घण्टः ॥ क्वचित् पुस्तके लाञ्छनीति च पाठः ॥