वाचस्पत्यम्
लाट || पु० लट—मंज्ञायां घञ् । १ देशभेदे २ वस्त्रे अमरः ३ जीर्णालङ्कारे शब्दर० । ४ विदग्धपुरुषे च सा० द० ।
शब्दकल्पद्रुमः
लाटः || पुं, देशान्तरम् । (यथा, कथासरित्सागरे । ७८ । ११९ । “ददौ तस्मै सपुत्त्राय प्रीत्या वीरवराय च । लाटदेशे ततो राज्यं स कर्णाटयुते नृपः ॥”)
वस्त्रम् । इति मेदिनी । टे, २७ ॥ जीर्णभूष- णादि । इति शब्दरत्नावली ॥