संस्कृत-शब्दकोशः

लालसीक लालाटिक

लाला

वाचस्पत्यम्

लाला ||‍ स्त्री चु० लल—णिच् अच्—टाप् । सुखजजललवे अमरः


शब्दकल्पद्रुमः

लाला || स्त्री (लल् + णिच् + अच् । टाप् ।)
मुखभवजलम् । लाल इति भाषा । तत्पर्य्यायः । सृणिका २ स्यन्दिनी ३ । इत्यमरः ॥ द्राविका ४ सृणीका ५ । इति शब्दरत्नावली ॥ मुख- स्रावः । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते । ४ । २२ । “हीनच्छेदात् भवेच्छोफो लालानिद्राभ्रम- स्तमः ॥”)



Correction: