वाचस्पत्यम्
लालाटिक || त्रि० ललाटं प्रभोर्माग्यं पश्यति ठञ् । १ प्रभु- भाग्यापजीविनि कार्य्यासमर्थे अमरः । ललाटात् ललाटस्थसाग्यात् आगतः तस्येदं वा ठण् । २ भाग्या- धीने त्रि० “प्राप्तिस्तु लालाटिकी” इत्युद्भटः । ३ ललाट- सम्बन्धिनि त्रि० ।
शब्दकल्पद्रुमः
लालाटिकः || त्रि (ललाटं पश्यतीति । ललाट + “संज्ञायां ललाटकुक्कुटौ पश्यति ।” ४ । ४ । ४६ । इति ठक् । दूरेस्थित्वा प्रभोर्ललाटं पश्यति न तु कार्य्येषूपतिष्ठते इत्यर्थः ।)
प्रभोर्भालदर्शी ॥ कार्य्याक्षमः । इत्यमरः ॥ यः सेवकः क्रोध- प्रसादचिह्नज्ञानाय प्रभोर्ललाटमेव पश्यति । यश्च प्रभोः कार्य्येऽक्षमोऽशक्तस्तौ लालाटिकौ पूर्ब्ब- वत् ष्णिकः । केचित्तु कार्य्याक्षम इति भाल- दर्शिन एव विशेषणमुक्त्वा एकमेव लालाटिक- माहुर्न तु द्बाविति । भावदर्शीति च पाठः लालाटिकः सदालस्ये प्रभुभावनिदर्शिनि । इत्य- जयः ॥ इति तट्टीकायां भरतः ॥ आश्लेषण- विशेषे, पुं, । इति मेदिनी । के, २२१ ॥ ललाट- सम्बन्धिनि, त्रि । यथा । प्राप्तिस्तु लालाटिकी- त्यादि ॥