शब्दकल्पद्रुमः
ला(ब)वकः || पुं, (लाव एव । स्वार्थे कन् ।)
लाव- पक्षी । तत्पर्य्यायः । लघुजङ्गलः २ । इति त्रिकाण्डशेषः ॥ (तथास्य मांसगुणाः । “पक्षिणाञ्च महाश्रेष्ठो लावको जाङ्गलात्मकः । मंग्राही दीपनः प्रोक्तः कषायो मधुरो लघुः । तथा विपाके मधुरः सन्निपातेऽतिपूजितः ॥” इति हारीते प्रथमे स्थाने एकादशेऽध्याये ॥ यथा, सुश्रुते । ४ । ३९ । “विरिक्तवान्तैर्हरिणैणलावकाः शशश्च सेव्यः समयूरतित्तिरिः ॥” लुनातीति । लू + ण्वुल् । छेदकः । यथा, मार्क- ण्डेये । ४६ । १६ । “यथा प्रागव्यापकः क्षेत्री पालको लावक- स्तथा ॥”)