संस्कृत-शब्दकोशः

लावक लावणिक

लावण

वाचस्पत्यम्

लावण ||‍ न० लवणे संस्कृतम् अण् । लवणसंस्कृते औषधादौ


शब्दकल्पद्रुमः

लावणं || त्रि (लवण + अण् ।)
लवणेन संस्कृतम् । यथा, —
“सार्पिष्कं दाधिकं सर्पिर्दधिभ्यां संस्कृतं क्रमात् । लवणोदकाभ्यामुदकं लाषणिकमुदश्विति । औदश्वितमौदश्वित्कं लवणे स्यात्तु लावणम् ॥” इति हेमचन्द्रः ॥ लवणसम्बन्धि च । (यथा, हरिवंशे । ५३ । २० । “स मां परिभवन्नेव स्वां वेलां समुपाक्रमन् । क्लेदयामास चपलैर्लावणैरम्बुविस्रवैः ॥”)
नस्ये, क्ली । इति रत्नमाला ॥



Correction: